|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.113. अध्यायः 113
Mahabharata - Udyoga Parva - Chapter Topics
ऋषभगिरिश्रृङ्गमुपगतयोः गरुडगालवयोः तत्र शाण्डिलीनामकब्राह्मणीदर्शनम् ॥ 1 ॥ तद्दत्तान्नमुपभुज्य विश्रमाय तत्र शयनम् ॥ 2 ॥ सुप्तोत्थितं शिथिलपक्षबन्धं तार्क्ष्यमभिवीक्ष्य गालवेन तंप्रति तत्कारणप्रश्नः ॥ 3 ॥ सुपर्णेन ब्राह्मण्याः विष्णावाद्यन्यतमसमीपप्रापणानुचिन्तनस्य स्वानर्थप्राप्तिकारणत्वकथनपूर्वकं तांप्रति क्षमापनम् ॥ 4 ॥ तत्प्रसादाधिगतपक्षबलेन सुपर्णेन सह गच्छतो गालवस्य मध्येमार्गं यदृच्छोपागतेन विश्वामित्रेण पुनरश्वानयनचोदनम् ॥ 5 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-113-0(35679)
नारद उवाच। 5-113-0x(3722)
ऋषभस्य ततः शृङ्गं निपत्य द्विजपक्षिणौ।
शाण्डिलीं ब्राह्मणीं तत्र ददृशो तपोन्विताम् ॥ 5-113-1(35680)
अभिवाद्य सुपर्णस्तु गालवश्चाभिपूज्य ताम्।
तया च स्वागतेनोक्तौ विष्टरे सन्निषीदतुः ॥ 5-113-2(35681)
सिद्धमन्नं तया दत्तं बलिमन्त्रोपबृंहितम् ।
भुक्त्वा तृप्तावुभौ भूमौ सुप्तौ तावनुमोहितौ ॥ 5-113-3(35682)
मुहूर्तात्प्रतिबुद्धस्तु सुपर्णो गमनेप्सया ।
` तां दृष्ट्वा चारुसर्वाङ्गी तापसीं ब्रह्मचारिणीम् ॥ 5-113-4(35683)
ग्रहीतुं हि मनश्चक्रे रूपात्साक्षादिव श्रियम् ।'
अथ भ्रष्टतनूजाङ्गमात्मानं ददृशे खगः ॥ 5-113-5(35684)
मांसपिण्डोपमोऽभूत्स मुखपादान्वितः खगः।
गालवस्तं तथा दृष्ट्वा विमनाः पर्यपृच्छत ॥ 5-113-6(35685)
किमिदं भवता प्राप्तमिहागमनजं फलम्।
वासोऽयमिह कालं तु कियन्तं नौ भविष्यति ॥ 5-113-7(35686)
किं नु ते मनसा ध्यातमशुभं धर्मदूषणम् ।
न ह्ययं भवतः स्वल्पो व्यभिचारो भविष्यति ॥ 5-113-8(35687)
सुपर्णोऽथाब्रवीद्विप्रं प्रध्यातं वै मया द्विज ।
इमां सिद्धामितो नेतुं तत्र यत्र प्रजापतिः ॥ 5-113-9(35688)
यत्र देवो महादेवो यत्र विष्णुः सनातनः ।
यत्र धर्मश्च यज्ञश्च तत्रेयं निवसेदिति ॥ 5-113-10(35689)
सोऽहं भगवतीं याचे प्रणतः प्रियकाम्यया।
मयैतन्नाम प्रध्यातं मनसा शोचसा किल ॥ 5-113-11(35690)
तदेवं बहुमानात्ते मयेहानीप्सितं कृतम् ।
सुकृतं दुष्कृतं वा त्वं माहात्म्यात्क्षन्तुमर्हसि ॥ 5-113-12(35691)
सा तौ तदाऽब्रवीत्तुष्टा पतगेन्द्रद्विजर्षभौ।
न भेतव्यं सुपर्णोऽसि सुपर्ण त्यज संभ्रमम् ॥ 5-113-13(35692)
निन्दितास्मि त्वया वत्स न च निन्दां क्षमाम्यहम् ।
लोकेभ्यः सपदि भ्रश्येद्यो मां निन्देत पापकृत् ॥ 5-113-14(35693)
हीनयाऽलक्षणैः सर्वैस्तथाऽनिन्दितया मया।
आचारं प्रतिगृह्णन्त्या सिद्धिः प्राप्तेयमुत्तमा ॥ 5-113-15(35694)
आचारः फलते धर्ममाचारः फलते धनम् ।
आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणम् ॥ 5-113-16(35695)
तदायुष्मन्खगपते यथेष्टं गम्यतामितः ।
न च ते गर्हणीयाऽहं गर्हितव्याः स्त्रियः क्वचित् ॥ 5-113-17(35696)
` यदि त्वमात्मनो ह्यर्थे मां चैवादातुमिच्छसि।
तदेव नष्टदेहस्तु स्या वै त्वं पन्नगाशन ॥ 5-113-18(35697)
तस्यैव हि प्रसादेन देवदेवस्य चिन्तनात् ।
त्वं तु साङ्गस्तु सञ्जातः पुनरेव भविष्यसि ॥' 5-113-19(35698)
भवितासि यथापूर्वं बलवीर्यसमन्वितः । 5-113-20(35699)
नारद उवाच।
बभूवतुस्ततस्तस्य पक्षौ द्रविणवत्तरौ ॥ 5-113-20x(3723)
अनुज्ञातस्तु शाण्डिल्या यथागतमुपागमत् ।
नैव चासादयामास तथारूपांस्तुरङ्गमान् ॥ 5-113-21(35700)
विश्वामित्रोऽथ तं दृष्ट्वा गालवं चाध्वनि स्थितः ।
उवाच वदतां श्रेष्ठो वैनतेयस्य सन्निधौ ॥ 5-113-22(35701)
यस्त्वया स्वयमेवार्थः प्रतिज्ञातो मम द्विज।
तस्य कालोऽपवर्गस्य यथा वा मन्यते भवान् ॥ 5-113-23(35702)
प्रतीक्षिष्याम्यहं कालमेतावन्तं तथा परम् ।
यथासंसिध्यते विप्र स मार्गस्तु निशाम्यताम् ॥ 5-113-24(35703)
सुपर्णोऽथाब्रवीद्दीनं गालवं भृशदुःखितम् ।
प्रत्यक्षं खल्विदानीं मे विश्वामित्रो यदुक्तवान् ॥ 5-113-25(35704)
तदागच्छ द्विजश्रेष्ठ मन्त्रयिष्याव गालव ।
नादत्त्वा गुरवे शक्यं कृत्स्नमर्थं त्वयाऽऽसितुम् ॥ ॥ 5-113-26(35705)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रयोदशाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-113-5 भ्रष्टतनूजं छिन्नपक्षमङ्गं यस्य तं भ्रष्टतनूजाङ्गम् ॥ 5-113-8 व्यभिचारो धर्मातिक्रमः ॥ 5-113-11 शोचता कथमियमत्र वसतीति ॥ 5-113-20 द्रविणवत्तरौ बलवत्तरौ ॥ 5-113-23 अपवर्गस्य फलप्राप्तेः ॥ 5-113-24 निशाम्यतां विचार्यताम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|